वांछित मन्त्र चुनें

उपो॒ रथे॑षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः । आ वो॒ यामा॑य पृथि॒वी चि॑दश्रो॒दबी॑भयन्त॒ मानु॑षाः ॥

अंग्रेज़ी लिप्यंतरण

upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ | ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ ||

मन्त्र उच्चारण
पद पाठ

उपो॒ इति॑ । रथे॑षु । पृष॑तीः । अ॒यु॒ग्ध्व॒म् । प्रष्टिः॑ । व॒ह॒ति॒ । रोहि॑तः । आ । वः॒ । यामा॑य । पृ॒थि॒वी । चि॒त् । अ॒श्रो॒त् । अबी॑भयन्त । मानु॑षाः॥

ऋग्वेद » मण्डल:1» सूक्त:39» मन्त्र:6 | अष्टक:1» अध्याय:3» वर्ग:19» मन्त्र:1 | मण्डल:1» अनुवाक:8» मन्त्र:6


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर मनुष्यों को किसके साथ इनको युक्त करके कार्यों को सिद्ध करने चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (मानुषाः) विद्वान् लोगो ! तुम (वः) अपने (यामाय) स्थानान्तर में जाने के लिये (पृष्टिः) प्रश्नोत्तरादि विद्या व्यवहार से विदित (रोहितः) रक्त गुणयुक्त अग्नि (पृथिवी) स्थल जल अन्तरिक्ष मे जिन को (उपवहति) अच्छे प्रकार चलाता है जिनके शब्दों को (अश्रोत्) सुनते और (अबीभयन्त) भय को प्राप्त होते हैं उन (रथेषु) रथों में (पृषतीः) वायुओं को (अयुग्ध्वम्) युक्त करो ॥६॥
भावार्थभाषाः - जो मनुष्य यानों में जल अग्नि और वायु को युक्त कर उनमें बैठ गमनागमन करें तो सुख ही से सर्वत्र जाने-आने को समर्थ हों ॥६॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(उपो) सामीप्ये (रथेषु) स्थलजलान्तरिक्षाणां मध्ये रमणसाधनेषु यानेषु (पृषतीः) पर्षंति सिंचन्ति याभिस्ताः शीघ्रगतीः मरुतां धारणवेगादयोऽश्वाः। पृषत्यो मरुतामित्यादिष्टोपयोजननामसु पठितम्। निघं० १।१५। (अयुग्ध्वम्) सम्प्रयुङ्ध्वम्। अत्र लोडर्थे लुङ्। बहुलं छन्दसि इति विकरणाभावश्च (प्रष्टिः) पृच्छन्ति ज्ञीप्संत्यनेन सः (वहति) प्रापयति (रोहितः) रक्तगुणविशिष्टस्याग्नेर्वेगादिगुणसमूहः। रोहितोग्नेरित्यादिष्टोपयोजननामसु पठितम्। निघं० १।३#। (चित्) एव (अश्रोत्) श्रृणोति। अत्र बहुलं छन्दसि इति विकरणभावः। (अबीभयन्त) भीषयन्ते। अत्र लडर्थे लुङ्। (मानुषाः) विद्वांसो जनाः ॥६॥ #[नि० १।१५।]

अन्वय:

पुनर्मनुष्यैः केन सहैतान्संप्रयोज्य कार्याणि साधनीयानी त्युपदिश्यते।

पदार्थान्वयभाषाः - हे मानुषा ! यूयं वो युष्माकं यामाय प्रष्टीरोहितोग्निः पृथिवी भूमावन्तरिक्षे गमनाय यान् वहति यस्य शब्दानश्रोदबीभयन्त तेषु रथेषु तं पृषतीश्चायुग्ध्वम् ॥६॥
भावार्थभाषाः - यदि मनुष्या यानेषु जलाग्निवायुप्रयोगान् कृत्वा तत्र स्थित्वा गमनागमने कुर्युस्तर्हि सुखेनैव सर्वत्र गन्तुमागन्तुं च शक्नुयुः ॥६॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जी माणसे यानात जल, अग्नी व वायूला युक्त करून त्यातून गमनागमन करतात तेव्हा ती सहजगत्या सर्वत्र जाण्या-येण्यास समर्थ होतात. ॥ ६ ॥